द्वादश ज्योतिर्लिग स्तोत्र - Lord Shiva 12 Dwadash Jyotirling Stotra
द्वादश ज्योतिर्लिग स्तोत्र
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपधे ।।1।।
श्रीशैलश्रृंगे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ।।2।।
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ।।3।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसंतमोंकारमीशं शिवमेकमीडे ।।4।।
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्यं श्रीवैद्यनाथ तमहं नमामि ।।5।।
याम्ये सदंगे नगरेऽतिरम्ये विभूषितांग विविधैश्च भोगै: ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपधे ।।6।।
महाद्रिपाशर्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रै: ।
सुरासुरैर्यक्षमहोरगाधै: केदारमीशं शिवमेकमीडे ।।7।।
सहारद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे।
यदर्शनात्पाकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ।।8।।
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यै: ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ।।9।।
यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ।।10।।
सानन्दमानन्दवने वसंतमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपधे ।।11।।
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेन्यम् ।
वन्दे महोदारतरस्वभावं घ्रष्णेश्वराख्यं शरणं प्रपधे ।।12।।
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ।।13।।
.jpeg)
Comments
Post a Comment