श्री गणेश अष्टोत्तर - Lord Ganesha Ashtottara

 गणेश अष्टोत्तर


 विनायकॊ विघ्नराजॊ गौरीपुत्रॊ गणॆश्वरः ।

 स्कन्दाग्रजॊव्ययः पूतॊ दक्षॊज़्ध्यक्षॊ द्विजप्रियः ॥ 1 ॥


 अग्निगर्वच्छिदिन्द्रश्रीप्रदॊ वाणीप्रदॊज़्व्ययः

 सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥


 सर्वात्मकः सृष्टिकर्ता दॆवॊनॆकार्चितश्शिवः ।

 शुद्धॊ बुद्धिप्रियश्शान्तॊ ब्रह्मचारी गजाननः ॥ 3 ॥


 द्वैमात्रॆयॊ मुनिस्तुत्यॊ भक्तविघ्नविनाशनः ।

 ऎकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ 4 ॥


 लम्बॊदरश्शूर्पकर्णॊ हरर्ब्रह्म विदुत्तमः ।

 कालॊ ग्रहपतिः कामी सॊमसूर्याग्निलॊचनः ॥ 5 ॥


 पाशाङ्कुशधरश्चण्डॊ गुणातीतॊ निरञ्जनः ।

 अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ 6 ॥


 बीजपूरफलासक्तॊ वरदश्शाश्वतः कृती ।

 द्विजप्रियॊ वीतभयॊ गदी चक्रीक्षुचापधृत् ॥ 7 ॥


 श्रीदॊज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।

 कुलाद्रिभॆत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥


 चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।

 अश्रितश्रीकरस्सौम्यॊ भक्तवांछितदायकः ॥ 9 ॥


 शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ।

 ज्ञानी दयायुतॊ दान्तॊ ब्रह्मद्वॆषविवर्जितः ॥ 10 ॥


 प्रमत्तदैत्यभयदः श्रीकण्ठॊ विबुधॆश्वरः ।

 रमार्चितॊविधिर्नागराजयज्ञॊपवीतवान् ॥ 11 ॥


 स्थूलकण्ठः स्वयङ्कर्ता सामघॊषप्रियः परः ।

 स्थूलतुण्डॊज़्ग्रणीर्धीरॊ वागीशस्सिद्धिदायकः ॥ 12 ॥


 दूर्वाबिल्वप्रियॊज़्व्यक्तमूर्तिरद्भुतमूर्तिमान् ।

 शैलॆन्द्रतनुजॊत्सङ्गखॆलनॊत्सुकमानसः ॥ 13 ॥


 स्वलावण्यसुधासारॊ जितमन्मथविग्रहः ।

 समस्तजगदाधारॊ मायी मूषकवाहनः ॥ 14 ॥


 हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।

 अष्टॊत्तरशतॆनैवं नाम्नां विघ्नॆश्वरं विभुम् ॥ 15 ॥


 तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ।

 यः पूजयॆदनॆनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥


 दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।

 सर्वान्कामानवाप्नॊति सर्वविघ्नैः प्रमुच्यतॆ ॥

Comments

Popular posts from this blog

Shri Shiv Chalisa - श्री शिव चालीसा

संकट नाशन गणेश स्तोत्र - Shri Ganesha Sankat Nashan Stotra

Shri Mahalakshmi Ashtakam - श्री महालक्ष्म्यष्टकम् - महालक्ष्मी अष्टकम

सरस्वती चालीसा - Goddess Saraswati Chalisa

बटुक भैरव चालीसा – Lord Batuk Bhairav Chalisa

Lord Shani Dev Chalisa - श्री शनि देव चालीसा