श्री गणेशमहिम्न: स्तोत्र- Lord Ganesha Mahimna Stotra
।। श्री गणेशमहिम्न: स्तोत्र ।।
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गणितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महत: ।
यतो जातं विश्र्वंस्थितमपि सदा यत्र विलय: स कीद्रग्गीर्वाण: सुनिगमनुत: श्रीगणपति ।।1।।
गणेशं गाणेशा: शिवमिति च देवाश्र्च विबुधा रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजका: ।
वदंत्येके शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ।।2।।
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम् ।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ।।3।।
कथं ज्ञेयो बुद्धे: परतर इयं बाज्झसरणिर्यथा धीर्यस्य स्यात्स च तदनुरुपो गणपति: ।
महत्क्रत्यं स्वयमपि महान् सूक्ष्ममणुवद्ध्वनिज्र्योतिर्बिन्दुर्गगनसद्रश: किंच सदसत् ।।4।।
अनेकास्योऽपाराक्षिकरचरणोऽनन्तह्र्दयस्तथा नानारूपो विविधवदन: श्रीगणपति: ।
अनंताह्व: शक्त्या विविधगुणकर्मैकसमये त्सवंख्यातानंताभिमतफलदोऽनेकषिये ।।5।।
न यस्यांतो मध्यो न च भवति चादि: सुमहतामलिप्ता: कृत्वेत्थं सकलमपि खंवत्स च पृथक ।
स्मृत: संस्मर्तृणां सकलह्रदस्थ: प्रियकरो नमस्तस्मै देवाय सकलसुरवंद्याय महते ।।6।।
गणेशाद्यं बीजं दहनवनितापल्लवयुतं मनुश्र्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलद: ।
सबिंदुश्र्चांगाद्यं गणकऋषिछन्दोऽस्य च निच्रत्स देव: प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ।।7।।
गकारो हेरंब: सगुण इति पुंनिर्गुणमयो द्विधाऽप्येको जात: प्रक्रतिपुरुषो ब्रह्म हि गण: ।
स चेशश्र्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको यतो भूतं भव्यं भवति पतिरीशो गणपति: ।।8।।
गकार: कण्ठोधर्वं गजमुखसमो मत्र्यसद्रशो णकार: कंठाधो जठरसदृशाकार इति च ।
अधोभाग: कटयां चरण इति हीशोऽस्य च तनुर्विभातीत्थंनाम त्रिभुवनसमं भूर्भुव:सुव: ।।9।।
गणेशेति त्रयर्णात्मकमपि वरं नाम सुखदं सक्रत्प्रोच्चैरुच्चारितमिति न्रभि: पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुक्रतं न विज्ञातो नाम्न: सकलमहिमा कीदृशविध: ।।10।।
गणेशेत्याह्वां य: प्रवदति मुहुस्तस्य पुरत: प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति प्रबोध: सुप्तस्य त्वखिलमिह सामर्थ्यममुना ।।11।।
गणेशो विश्र्वस्मिन्स्थित इह च विश्र्वं गणपतौ गणेशो यत्रास्ते धृतिमतिरनैश्र्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिपदं मंगलमयं तदैकास्यं दृष्टे: सकलविबुधास्येक्षणसमम् ।।12।।
बहुक्लेशैव्र्याप्त: स्मृत उत गणेशे च ह्रदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ।।13।।
गणाध्यक्षो ज्येष्ठ: कपिल अपरो मंगलनिधि्र्दयालुर्हेरंबो वरद इति चिंतामणिरज: ।
वरानीशो ढुंढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ।।14।।
महेशोऽयं विष्णु: सकविरविरिन्दु: कमलज: क्षितिस्योयं वह्नि: श्र्वसन इति खं त्वद्रिरुदधि: ।
कुजस्तार: शुक्रो गुरुरुडुबुधोऽगुश्र्च धनदो यम: पाशी काव्य: शनिरखिलरूपो गणपति: ।।15।।
मुखं वहिन पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो ह्रदयमपि कामोऽस्य मदन: ।
करे शक्र: कट्यामवनिरुदरं भाति दशनं गणेशस्यासन्वै क्रतुमयवपुश्र्चैव सकलम् ।।16।।
अनघ्र्यालंकारैररुणवसनेर्भूषिततनु: करीन्द्रास्य: सिंहासनमुपगतो भाति बुधराट् ।
स्मित: स्यात्तन्मध्येऽप्युदितरविबिंबपोमरूचि: स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ।।17।।
समंतात्तस्यासंप्रवरमुनिसिद्धा: सुरगणा: प्रशंसंतीत्यग्रे विविधनुतिभि: सांजलिपुटा: ।
विडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदप्रमुदविकटाद्यै: सहचरै: ।।18।।
वशित्वादयष्टादशदिगखिलाल्लोलमनुवाग्ध्रति: पादू:खंगोऽञज्नरसबला: सिद्धय इमा: ।
सदा पृष्ठे तिष्ठन्तयनिमिषदृशस्तन्मुखलया गणेशं सेवंतेऽप्यतिनिकटसूपायनकरा: ।।19।।
मृगांकास्या रंभाप्रभ्रतिगणिका यस्य पुरत: सुसंगीतं कुर्वन्त्यपि कुतुकगन्ध्र्वसहिता: ।
मुद: पारो नात्रेत्यनुपममदे दोर्विगलिता स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ।।20।।
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेश: पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिवरणे नरै: सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ।।21।।
अयं सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरग्रहे रंकसद्रश: ।
शिवद्वारे द्वा:स्थो न्रप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपर: ।।22।।
अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टास्त्रिभुवनगता: स्युर्बुधगणा: ।
दयालुर्हेरंबो न च भवति यस्मिंश्र्च पुरुषे वृथा सर्वं तस्य प्रजननमत: सांद्रतमसि ।।23।।
वरेण्यो भूशुंडीर्भ्रगुगुरुकुजा मुदगलमुखा ज्झपारास्तद्भक्ता जपहवनपूजास्तुतिपरा: ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयंमपि सदा निष्ठति गण: ।।24।।
मृद: काश्चिद्धातोश्छदविलिखता वापि दृषद: स्मृता व्याजान्मूर्ति: पथि यदि बहिर्येन महसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपते: श्रुत: शुद्धो मत्र्यो भवति दूरिताद्विस्मय इति ।।25।।
बहिर्द्वारस्योध् गघवदनवष्र्मेन्धनमयं प्रशस्तं वा कृत्वा विविधकुशलस्तत्र निहितम् ।
प्रभावात्त न्मूत्र्या भवति सदनं मंगलमयं त्रिलोक्यानंदस्तां भवति जगतो विस्मय इति ।।26।।
सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढिसद्रशीम् ।
समर्चंत्युत्साहै: प्रभवति महान् सर्वसदने विलोक्यानंदस्तां प्रभवति न्रणां विस्मय इति ।।27।।
तथा ह्मेक: श्लोको वरयति महिम्नो गणपते: कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपठिते ।
स्मृतं नामास्यैकं सक्रदिदमनंताह्वयसमं यतो यस्यैकस्य स्तवनसद्रशं नान्यदपरम् ।।28।।
गजवदन विभोयद्वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणाया: सागर: क्रत्स्न्नदाताप्यति तव भृतकोऽहं सर्वदा चिंतकोऽस्मि ।।29।।
सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानंदं प्रतिगमनेऽप्ययं सुमार्ग: ।
संचिंत्य स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नती: करिष्ये ।।30।।
गणेशदेवस्य महात्म्यमेतद्य: श्रावयद्वापि पठेच्च तस्य ।
क्लेशा लयं यान्ति लभेच्च शीघ्रं स्त्रीपुत्रविद्यार्थग्रहं च मुक्तिम् ।।31।।
Comments
Post a Comment