मंगल चण्डिका स्तोत्र - Mangal Chandika stotra

।। श्री मंगलचंडिकास्तोत्रम् ।।
 
ध्यान
 
“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II  
 
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I 
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II 
 
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I 
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 
  
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I  
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 
  
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I 
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 
  
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I 
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 
  
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I  
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II  
 
संसारसागरे घोरे पोतरुपां वरां भजे II 
 
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I 
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II 
 
|| शंकर उवाच ||
 
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I 
हारिके विपदां राशेर्हर्षमङ्गलकारिके II 
 
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I  
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II
 
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I  
सतां मन्गलदे देवि सर्वेषां मन्गलालये II
  
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I  
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II
  
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I  
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II 
 
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I  
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II
  
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I 
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II
  
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I 
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II
 
इति श्री ब्रह्मवैवर्ते श्री मंगल चंडिका स्तोत्रम् संपूर्णम्
 


Comments

Popular posts from this blog

Shri Shiv Chalisa - श्री शिव चालीसा

संकट नाशन गणेश स्तोत्र - Shri Ganesha Sankat Nashan Stotra

Shri Mahalakshmi Ashtakam - श्री महालक्ष्म्यष्टकम् - महालक्ष्मी अष्टकम

सरस्वती चालीसा - Goddess Saraswati Chalisa

बटुक भैरव चालीसा – Lord Batuk Bhairav Chalisa

Lord Shani Dev Chalisa - श्री शनि देव चालीसा