सूर्य अष्टकम - Surya Ashtakam for the lord Sun

श्री सूर्य अष्टकम ॥


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते ॥1॥


सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥2॥


लोहितं रथमारूढं सर्वलोकपितामहम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥3॥


त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥4॥


बृंहितं तेज:पु़ञ्जं च वायुमाकाशमेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥5॥


बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् ।

एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥6॥


तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥7॥


तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥8॥


इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ।


सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।

अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥


अमिषं मधुपानं च यः करोति रवेर्दिने ।

सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥


स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।

न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥

Comments

Popular posts from this blog

Shri Shiv Chalisa - श्री शिव चालीसा

संकट नाशन गणेश स्तोत्र - Shri Ganesha Sankat Nashan Stotra

Shri Mahalakshmi Ashtakam - श्री महालक्ष्म्यष्टकम् - महालक्ष्मी अष्टकम

सरस्वती चालीसा - Goddess Saraswati Chalisa

बटुक भैरव चालीसा – Lord Batuk Bhairav Chalisa

Lord Shani Dev Chalisa - श्री शनि देव चालीसा